ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः। तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥ 1 ॥
श्रीमद्भगवद्गीता · भाग 17
आत्म-निष्ठा
एक श्लोक पढ़ें या सुनें। ठहरें। उसके शब्दों के साथ कुछ समय बिताएँ।
सुनें दबाएँ — आगे के श्लोक और अगले भाग अपने-आप क्रम से चलेंगे।
त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा। सात्त्विकी राजसी चैव तामसी चेति तां श्रृणु ॥ 2 ॥
सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत। श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ॥ 3 ॥
यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः। प्रेतान् भूतगणांश्चान्ये यजन्ते तामसा जनाः॥ 4 ॥
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः। दम्भाहंकारसंयुक्ताः कामरागबलान्विताः॥ 5 ॥
कर्षयन्तः शरीरस्थं भूतग्राममचेतसः। मां चैवान्तःशरीरस्थं तान् विद्ध्यासुरनिश्चयान्॥ 6 ॥
आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः। यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु॥ 7 ॥
आयुः सत्त्वबलारोग्यसुखप्रीतिविवर्धनाः। रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥ 8 ॥
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः। आहारा राजसस्येष्टा दुःखशोकामयप्रदाः॥ 9 ॥
यातयामं गतरसं पूति पर्युषितं च यत्। उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्॥ 10 ॥
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते। यष्टव्यमेवेति मनः समाधाय स सात्त्विकः॥ 11 ॥
अभिसंधाय तु फलं दम्भार्थमपि चैव यत्। इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम्॥ 12 ॥
विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम्। श्रद्धाविरहितं यज्ञं तामसं परिचक्षते॥ 13 ॥
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम्। ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते॥ 14 ॥
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्। स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते॥ 15 ॥
मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः। भावसंशुद्धिरित्येतत् तपो मानसमुच्यते॥ 16 ॥
श्रद्धया परया तप्तं तपस्तत् त्रिविधं नरैः। अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते॥ 17 ॥
सत्कारमानपूजार्थं तपो दम्भेन चैव यत्। क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम्॥ 18 ॥
मूढग्राहेणात्मनो यत् पीडया क्रियते तपः। परस्योत्सादनार्थं वा तत् तामसमुदाहृतम्॥ 19 ॥
दातव्यमिति यद् दानं दीयतेऽनुपकारिणे। देशे काले च पात्रे च तद् दानं सात्त्विकं स्मृतम्॥ 20 ॥
यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः। दीयते च परिक्लिष्टं तद् दानं राजसं स्मृतम्॥ 21 ॥
अदेशकाले यद् दानमपात्रेभ्यश्च दीयते। असत्कृतमवज्ञातं तत् तामसमुदाहृतम्॥ 22 ॥
ॐ तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः। ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा॥ 23 ॥
तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः। प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्॥ 24 ॥
तदित्यनभिसंधाय फलं यज्ञतपःक्रियाः। दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः॥ 25 ॥
सद्भावे साधुभावे च सदित्येतत् युज्यते। प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते॥ 26 ॥
यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते। कर्म चैव तदर्थीयं सदित्येवाभिधीयते॥ 27 ॥
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत्। असदित्युच्यते पार्थ न च तत् प्रेत्य नो इह॥ 28 ॥
पाठ-स्रोत: डॉ. राजेश तकयार की श्रीमद्भगवद्गीता श्रृंखला की पांडुलिपियाँ।
श्रवण: Vāgdhenu द्वारा कृत्रिम स्वर में संस्कृत पाठ। स्वर-स्रोत ↗
कोई प्रश्न है? सारथी से पूछें ↗